Posts

शिवताण्डवस्तोत्रम् Shivtandav stotram

Image
जटाटवीगलज्जलप्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् | डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ||१|| जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी विलोलवीचिवल्लरीविराजमानमूर्धनि | धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ||२|| धराधरेन्द्रनन्दिनी विलासबन्धुबन्धुर स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे | कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि ||३|| जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे | मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ||४|| सहस्रलोचनप्रभृत्यशेषलेखशेखर प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः | भुजङ्गराजमालया निबद्धजाटजूटक श्रियै चिराय जायतां चकोरबन्धुशेखरः ||५|| ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा निपीतपञ्चसायकं नमन्निलिम्पनायकम् | सुधामयूखलेखया विराजमानशेखरं महाकपालिसम्पदेशिरोजटालमस्तु नः  ||६|| करालभालपट्टिकाधगद्धगद्धगज्ज्वल द्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके | धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक प...

अथ भगवती गङ्गास्तोत्रम् Ganaga stotram

Image
भगवती भागीरथी गंगा का स्तोत्र बहुत ही मधुर एव लययुक्त है। श्रद्धा भक्तिभावपूर्वक इसका पाठ करने से सभी तरह के शाप , ताप नष्ट हो जाते हैं , बुद्धि विमल हो जाती है और व्यक्ति जीवन-मरण के बंधन से मुक्त हो जाता है - देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरलतरङ्गे। शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥ 1 ॥ हे देवी सुरेश्वरी भगवती गंगे ! आप तीनों लोकों को तारने वाली हैं। शुद्ध तरंगों से युक्त , महादेव शंकर के मस्तक पर विहार करने वाली हे मां! मेरा मन सदैव आपके चरण कमलों में केंद्रित है। भागीरथीसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः । नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् ॥ 2 ॥ हे मां भागीरथी! आप सुख प्रदान करने वाली हो। आपके दिव्य जल की महिमा वेदों ने भी गाई है। मैं आपकी महिमा से अनभिज्ञ हूं। हे कृपामयी माता! आप मेरी रक्षा करें। हरिपदपाद्यतरंगिणी गंगे हिमविधुमुक्ताधवलतरंगे। दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् ॥ 3 ॥ हे देवी! आपका जल श्री हरि के चरणामृत के समान है। आपकी तरंगें बर्फ , चंद्रमा और मोतियों के समान धवल हैं। कृपया मेरे सभी पापों को ...

योगः (Yog) योग: कर्मसु कौशलम्

Image
‘योग: कर्मसु कौशलम्’ श्लोकांशो$यं भगवता श्रीकृष्णेन श्रीमद्भगवद्गीतायाम् उक्तम्। यथाा -               बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।               तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम्।। इति    योगविद्या भारतवर्षस्य अमूल्यनिधिः। पुराकालादेव अविच्छिन्नरुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम्। वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञानं भवति। अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन्। श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन। यथा-ज्ञानयोगः, कर्मयोगश्च। परम्परानिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम्। योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति। तदुक्तं योगदर्शने यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टाङ्गानि इति। एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते। एषु यम- नियम-आसन-प्राणायाम-प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति। धारणा-ध्यान-समाधीति त्रीणि अन्तरङ्गाणि भवन्ति।...

।। अथ श्री आदित्यहृदयस्तोत्रम् ।।

Image
आदित्य ह्रदय स्तोत्र का पाठ नियमित  करने से अप्रत्याशित लाभ मिलता है। आदित्य हृदय स्तोत्र के पाठ से नौकरी में पदोन्नति, धन प्राप्ति, प्रसन्नता, आरोग्य की प्रप्ति, आत्मविश्वास के साथ-साथ समस्त कार्यों में सफलता मिलती है। प्रत्येक मनोकामना सिद्ध होती है। सरल शब्दों में कहें तो आदित्य ह्रदय स्तोत्र से प्रत्येक क्षेत्र में सफलता प्राप्त होती है। ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्‌ ।  रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌ ॥1॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्‌ ।  उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥2॥ राम राम महाबाहो श्रृणु गुह्यं सनातनम्‌ ।  येन सर्वानरीन्‌ वत्स समरे विजयिष्यसे ॥3॥ आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्‌ । जयावहं जपं नित्यमक्षय्यं परमं शिवम्‌ ॥4॥ सर्वमंगलमांगल्यं सर्वपापप्रणाशनम्‌ । चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्‌ ॥5॥ रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्‌ । पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्‌ ॥6॥ सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: ।  एष देवासुरगणांल्लोकान्‌ पात...

चतुर: शृगाल: संस्कृतकथा (Chaturah Shrigalah)

Image
            एकस्मिन् वने एकः सिंहः निवसति स्म। स अतीवक्रूरः। सः प्रतिदिनम् एकं मृगं खादति स्म। एकदा तत्र एकः शृगालः आगच्छति। सः अतीव चतुरः। सः सिंहं पश्यति भीतश्च भवति। सिंहः शृगालसमीपम् आगच्छति। तं खादितुं तत्परः भवति। तदा शृगालः रोदिति। सिंहः शृगालं पृच्छति - अयि भो ! भवान्भकिमर्थं  रोदनं करोति।  शृगालः वदति श्रीमन् ! वने  एकः अन्यः सिंहः अस्ति। सः मम पुत्रान् खादितवान्। अतः अहं रोदनं करोमि।  सिंहः पृच्छति  सः अन्यः सिंहः कुत्र अस्ति। शृगालः वदति - समीपे  एकः कूपः अस्ति। सः तत्र निवासं करोति।  सिंहः वदति - अहं तत्र गत्वा पश्यामि। तं सिंहं मारयामि।  शृगालः वदति - श्रीमन् ! आगच्छतु । अहं तं दर्शयामि।  शृगालः सिंहं कूपसमीपं नयति। कूपजलं दर्शयति सिंहः तत्र स्वप्रतिबिम्बं पश्यति। सः कोपेन गर्जयति। कूपात् प्रतिध्वनिः भवति। सः चिन्तयति एष अन्य: सिंह:। कुपितः सिंहः कूपे कूर्दनं करोति। सः तत्र एव मृतः भवति। एवं प्रकारेण शृगालः स्वचातुर्येण बुद्धिकौशलेन च आत्मरक्षणं करोति।           ...

संस्कृतवाङ्मये किं नास्ति अर्थात् सर्वमस्ति

Image
          संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अत एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥ संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति। आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥ भौतिकविषयेषु साहित्यं, सामूहिकं,...

संस्कृतभाषाया: वैशिष्ट्यम्

Image
(१) संस्कृतभाषा, विश्व की सबसे प्राचीन ग्रंथ ( वेद ) की भाषा है। इसलिये इसे  विश्व की प्रथम भाषा  मानने में कहीं किसी संशय की संभावना नहीं है। (२) इसकी  सुस्पष्ट व्याकरण  और  वर्णमाला की वैज्ञानिकता  के कारण सर्वश्रेष्ठता भी स्वयं सिद्ध है। (३) सर्वाधिक महत्वपूर्ण  साहित्य की धनी  होने से इसकी महत्ता भी निर्विवाद है। (४) इसे  देवभाषा  माना जाता है। (५) संस्कृत केवल स्वविकसित भाषा नहीं बल्कि  संस्कारित भाषा  भी है, अतः इसका नाम संस्कृत है। केवल संस्कृत ही एकमात्र भाषा है जिसका नामकरण उसके बोलने वालों के नाम पर  नहीं  किया गया है। संस्कृत को संस्कारित करने वाले भी कोई साधारण भाषाविद् नहीं बल्कि महर्षि  पाणिनि , महर्षि  कात्यायन  और योगशास्त्र के प्रणेता महर्षि  पतंजलि  हैं। इन तीनों महर्षियों ने बड़ी ही कुशलता से योग की क्रियाओं को भाषा में समाविष्ट किया है। यही इस भाषा का रहस्य है। (६)  शब्द-रूप  - विश्व की सभी भाषाओं में एक शब्द का एक या कुछ ही रूप होते हैं, जबकि स...