Posts

Showing posts from January, 2023

वीणानिनादिनि ! वन्दनम् (संस्कृतगीतम्)

Image
वीणानिनादिनि ! वन्दनं कुर्मो वयं ते वन्दम् । ते वन्दनं ते वन्दनं कुर्मो वयं ते वन्दनम् ।। हे पापपुञ्जविनाशिनि ! हे भव्यभावप्रकाशिनि !- 2 कुरु सत्यशिवसुन्दरमयं जगदम्बिके ! वरदायिनि ! सद्बुद्धिदायिनि ! वन्दनं कुर्मो वयं ते वन्दनम् ।। ते वन्दनं ते वन्दनं कुर्मो वयं ते वन्दनम् ।। 1 अयि ! राष्ट्रशक्तिप्रफुल्लिते ! अयि आर्यभावितदेवते !-2 स्वरनादमविरलमञ्जुभाविनि ! देवि पूरय शारदे ! विद्याविधायिनि ! वन्दनं कुर्मो वयं ते वन्दनम् ते वन्दनं ते वन्दनम्। कुर्मो वयं ते वन्दनम् ।।2।। हे देवि ! वीणावादिनि ! मातःसरस्वति ! ज्ञानदे ! - 2 जडचेतनाप्रतिबोधिनि ! वीणानिनादय भारति ! ।। चेतोविकाशिनि ! वन्दनं कुर्मो वयं ते वन्दनम् ते वन्दनं ते वन्दनम्। कुर्मो वयं ते वन्दनम् ।।3।। वीणानिनादिनि ! वन्दनं कुर्मो वयं ते वन्दनम् । ते वन्दनं ते वन्दनं कुर्मो वयं ते वन्दनम् ।।

राष्ट्रीयबालिकादिवस:

Image
जनवरी मासस्य 24 दिनाङ्के राष्ट्रीयबालिकादिवस: आयोज्यते। भारतसर्वकारस्य महिला एवं बालविकासमन्त्रालयद्वारा 2008 तमे ख्रिस्ताब्दे राष्ट्रीयबालिकादिवसस्य आरम्भोSभूत्। अस्मिन् दिने बालिकामाधारीकृत्य विभिन्नकार्यक्रमा: आयोज्यन्ते। वस्तुत: बालिकादिवसस्य महत्वपूर्णमुद्देश्यमिदमेव यत् बालिका: सुरक्षिता: सुशिक्षिता: जागरूकाश्च भवेयु:। अत एव प्रतिवर्षम् अयं कार्यक्रम आयोज्यते। डॉ. जितेन्द्रतिवारी 

पराक्रमदिवस:

Image
नेताजीसुभाषचन्द्रबोसमहोदयानां जन्म जनवरी मासस्य 23 दिनाङ्के 1897 तमे ख्रिस्ताब्दे वर्षे अभूत्। सम्पूर्णेSपि भारतवर्षे सुभाषचन्द्रबोसमहोदयानां जन्मदिवस एव पराक्रमदिवस रूपेण सोत्साहेन परिपाल्यते। प्रप्रथमम् अस्यारम्भ: 2021 तमे ख्रिस्ताब्दे वर्षे अभवत्। #पराक्रम_दिवस #संस्कृतम् #সংস্কৃত #Sanskrit ❤️🙏