वीणानिनादिनि ! वन्दनं कुर्मो वयं ते वन्दम् ।
ते वन्दनं ते वन्दनं कुर्मो वयं ते वन्दनम् ।।
हे पापपुञ्जविनाशिनि ! हे भव्यभावप्रकाशिनि !- 2
कुरु सत्यशिवसुन्दरमयं जगदम्बिके ! वरदायिनि !
सद्बुद्धिदायिनि ! वन्दनं कुर्मो वयं ते वन्दनम् ।।
ते वन्दनं ते वन्दनं कुर्मो वयं ते वन्दनम् ।। 1
अयि ! राष्ट्रशक्तिप्रफुल्लिते ! अयि आर्यभावितदेवते !-2
स्वरनादमविरलमञ्जुभाविनि ! देवि पूरय शारदे !
विद्याविधायिनि ! वन्दनं कुर्मो वयं ते वन्दनम्
ते वन्दनं ते वन्दनम्। कुर्मो वयं ते वन्दनम् ।।2।।
हे देवि ! वीणावादिनि ! मातःसरस्वति ! ज्ञानदे ! - 2
जडचेतनाप्रतिबोधिनि ! वीणानिनादय भारति ! ।।
चेतोविकाशिनि ! वन्दनं कुर्मो वयं ते वन्दनम्
ते वन्दनं ते वन्दनम्। कुर्मो वयं ते वन्दनम् ।।3।।
वीणानिनादिनि ! वन्दनं कुर्मो वयं ते वन्दनम् ।
ते वन्दनं ते वन्दनं कुर्मो वयं ते वन्दनम् ।।