एकस्मिन् वने एकः सिंहः निवसति स्म। स अतीवक्रूरः। सः प्रतिदिनम् एकं मृगं खादति स्म। एकदा तत्र एकः शृगालः आगच्छति। सः अतीव चतुरः। सः सिंहं पश्यति भीतश्च भवति। सिंहः शृगालसमीपम् आगच्छति। तं खादितुं तत्परः भवति। तदा शृगालः रोदिति।
सिंहः शृगालं पृच्छति - अयि भो ! भवान्भकिमर्थं रोदनं करोति। शृगालः वदति श्रीमन् ! वने एकः अन्यः सिंहः अस्ति। सः मम पुत्रान् खादितवान्। अतः अहं रोदनं करोमि। सिंहः पृच्छति सः अन्यः सिंहः कुत्र अस्ति। शृगालः वदति - समीपे एकः कूपः अस्ति। सः तत्र निवासं करोति। सिंहः वदति -अहं तत्र गत्वा पश्यामि। तं सिंहं मारयामि।
शृगालः वदति - श्रीमन् ! आगच्छतु। अहं तं दर्शयामि। शृगालः सिंहं कूपसमीपं नयति। कूपजलं दर्शयति सिंहः तत्र स्वप्रतिबिम्बं पश्यति। सः कोपेन गर्जयति। कूपात् प्रतिध्वनिः भवति। सः चिन्तयति एष अन्य: सिंह:। कुपितः सिंहः कूपे कूर्दनं करोति। सः तत्र एव मृतः भवति। एवं प्रकारेण शृगालः स्वचातुर्येण बुद्धिकौशलेन च आत्मरक्षणं करोति।
डॉ. जितेन्द्र: तिवारी

कृपया कमेन्ट के माध्यम से गलतियों की सूचना अवश्य प्रदान करें। जिससे सुधार किया का सके। सादर धन्यवाद ।
ReplyDelete