योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण
गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत
ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो
महत्त्वपूर्णमन्तर्विज्ञान भवति तथा। अनेन योगसमाधिना ऋषयो मन्त्रान्
द्रष्टुं समर्था आसन्
श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन। यथा
– ज्ञानयोगः, कर्मयोगश्च । तदुक्तम्
- लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
- ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् । (गीता-३/३)
- कर्म कर्त्तव्यमित्येव विहितेष्वेव कर्मसु ।
- बन्धनं मनसो नित्यं कर्मयोगः स उच्यते ॥
- यत्तु चित्तस्य सततमर्थे श्रेयसि बन्धनम् ।
- ज्ञानयोगः स विज्ञेयः सर्वसिध्दिकरः शिवः ॥
- यत् सांख्यैः प्राप्यते स्थानं, तद् योगैरपि गम्यते । (गीता- ५/५) ज्ञानकर्मयोगौ एकफलौ सन्तौ पृथक् स्वतन्त्राविति अज्ञा एव प्रवदन्ति । कर्मयोगं सम्यगनुतिष्ठन् शुध्दचित्तः सन् ज्ञानद्वारा यदुभयोः फलं कैवल्यं तत् प्राप्नोति । अतः अनयोः भेदत्वं ज्ञानिनः न स्वीकुवर्न्ति ।
- सांख्यायोगौ पृथग्वालाः प्रवदन्ति न पण्डिताः । (गी. -५/४)
- योगस्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया ।
- ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ (११/२०/६)
- डॉ. जितेन्द्रतिवारी