रघुवंशमहाकाव्यस्य प्रथमसर्गे महाकविकालिदासः ‘वागर्थाविव सम्पृक्तौ
वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ।’ इति शब्दार्थयोः इव
सम्पृक्तये पार्वतीपरमेश्वरयोः वन्दनां विधाय उदात्तरघुवंशे उत्पन्नानां राज्ञां
चरितं स्वलघुत्वम् उपस्थापनपुरस्सरं वर्णयितुं प्रारभते। सूर्यवंशे मनुः
सर्वप्रथमः राजा आसीत्। तस्यैव कुले महापराक्रमस्य राज्ञः दिलीपस्य जन्म अभूत्। सः
सम्यक् प्रजापालनं कुरुते स्म। दिलीपस्य भार्या नारीरत्नभूता मागधी सुदक्षिणा
आसीत्। चिरकालपर्यन्तं तस्यां सुदक्षिणायां गर्भचिन्हं न प्रादुर्बभूव।
अनपत्यतया नितरां दुःखितः सः नृपतिः दिलीपः साम्राज्यसुखं निःसारं मन्यमानः सपत्नीकः
वशिष्ठाश्रमम् अगच्छत्। तत्र वशिष्ठम् अभिवाद्य कुशलादिपृच्छानन्तरम् आगमनकारणं जिज्ञासितः राजा
निवेदयामास। भगवन् ! तव
एतस्यां वध्वां बहुकालं यावत्
गर्भचिन्हम् अनवलोक्य सर्वविधानन्दयुतः अपि अहं नितरां दुःखितः अस्मि।
राज्यश्रीः मह्यं न रोचते। मत्तः परं पिण्डदानकर्तृकाभावात् मम पूर्वजाः दुःखमनुभविष्यन्ति। अतः अपुत्रक्लेशः नितान्तं बाधते।
दिलीपस्य वचनं श्रुत्वा महर्षिः वशिष्ठः नयने निमील्य चित्तैकाग्रतापुरस्सरं कारणम् अवगम्य अकथयत् – भो राजन् !
एकदा कृतेन्द्रसहायस्त्वं
मातलिद्वितीयः सन् स्वर्गात् प्रत्यावर्तमानः ऋतुस्नातां वनितां सुदक्षिणां संस्मरन् पथि वर्तमानां कामधेनुं
नाभ्यनन्दत। एतदर्थं कामधेनुः त्वां शशाप। इदानीं त्वं यावत् कालपर्यन्तं तत्पुत्रीं नन्दिनीं न सेविष्यसे, तावत् तव पुत्रो न भविष्यति। अयमेव विद्यते तव अपुत्रहेतुः।
अतस्त्वं कामधेनुपुत्रीं
नन्दिनीं सेवस्व।तदानीमेव नन्दिनी तत्र समागता।
नन्दिन्यागमनं शुभलक्षणमिति मत्वा महर्षिवशिष्ठः दिलीपमुवाच - अचिरमेव
पूरयिष्यते तव मनोरथश्रीः। प्रसन्ना सती सा नन्दिनी भवतः मनोरथं साधयिष्यतीति
निश्चप्रचम्। एतदनन्तरं महर्षिः वशिष्ठः दिलीपं प्रति नन्दिनीसेवाविधिं विस्तरेण
अवर्णयत्। राजा दिलीपः गुरोः आदेशं नतेन मूर्ध्ना स्वीकृतवान्। प्रथमसर्गस्य
अन्तिमं पद्यम् -
निर्दिष्टां
कुलपतिना स पर्णशालाम्,
अध्यास्य
प्रयतपरिग्रहद्वितीयः ।
तच्छिष्याध्ययननिवेदितावसानां,
संविष्टः
कुशशयने निशां निनाय ।।
YouTube Video link -
https://www.youtube.com/watch?v=I0NXlhlaB3w
।। इति प्रथमसर्गस्य सारांशः समाप्तः।।